(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.116. अध्यायः 116
Mahabharata - Udyoga Parva - Chapter Topics
हर्यश्वपृष्टेन गालवेन तं प्रति शुल्कनिवेदनम् ॥ 1 ॥ हर्यश्वेन गालवंप्रति स्वस्याश्वशतद्वयवत्तया वरदाने सति एकापत्योत्पादनेन पुनः कन्याविसर्जनोक्तिः ॥ 2 ॥ माधव्या गालवंप्रति स्वस्य प्रसूत्यन्ते प्रसूत्यन्ते पुनः पुनः कन्यात्वसंपादकविप्रवरप्राप्तिकथनम् ॥ 3 ॥ हर्यश्वेन शुक्लदानेन तस्यां वसुमनोनामकपुत्रोत्पादनम् ॥ 4 ॥ हर्यश्वेन कालान्तरे समागताय गालवाय पुनर्माधवीप्रत्यर्पणम् ॥ 5 ॥ गालवेन कामतः पुनः कन्यात्वमुपगतया तया सह दिवोदाससमीपगमनम् ॥ 6 ॥
Mahabharata - Udyoga Parva - Chapter Text

नारद उवाच। 5-116-0x(3726)(35748)
हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः।
दीर्घमुष्णं च निश्वस्य प्रजाहेतोर्नृपोत्तमः ॥ 5-116-1(35749)
उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु पञ्चसु।
गम्भीरा त्रिषु चाङ्गेषु इयं रक्ता च पञ्चसु ॥ 5-116-2(35750)
`श्रोण्यौ ललाटमूरू च घ्राणं चेति षडुन्नतम्।
सूक्ष्माण्यङ्गुलिपर्वाणि केशरोमनस्वत्वचः । 5-116-3(35751)
स्वरः सत्वं च नाभिश्च त्रिगम्भीरं प्रचक्षते ।
पाणिपादतले रक्ते नेत्रान्तौ च नखानि च॥ 5-116-4(35752)
पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम्।
सप्तरक्तं त्रिविस्तीर्णं त्रिगम्भीरं प्रशकस्यते ॥ 5-116-5(35753)
पञ्चैव दीर्घा हनुलोचनानि
बाहूरुनासाश्च सुखप्रदानि ।
ह्रस्वानि चत्वारि च लिङ्गपृष्ठे
ग्रीवा च जङ्घे च हितप्रदानि ॥ 5-116-6(35754)
सूक्ष्माणि चत्वारि च लिङ्गपृष्ठे
ग्रीवा च जङ्घे च हितप्रदानि ॥
सूक्ष्माणि पञ्च दशनाङ्गुलिपर्वकेशा
स्त्वक्वैव वै कररुहाश्च न दुःखितानाम्।
वक्षोऽथ कक्षो नखनासिकास्यु-
रंसत्रिकं चेति षडुन्नतानि ॥ 5-116-7(35755)
नेत्रान्तपादकरताल्वधरोष्ठजिह्वा
रक्ता नखाश्च खलु सर्वसुखावहानि ॥' 5-116-8(35756)
बहुदेवासुरालोका बहुगन्धर्वदर्शना।
बहुलक्षणसंपन्ना बहुकल्याणधारिणी ॥ 5-116-9(35757)
समर्थेयं जनयितुं चक्रवर्तिनमात्मजम् ।
ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम ॥ 5-116-10(35758)
गालव उवाच। 5-116-11x(3727)
एकतःश्यामकर्णानां शतान्यष्टौ प्रयच्छ मे।
हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् ॥ 5-116-11(35759)
ततस्तव भवित्रीयं पुत्राणां जननी शुभा ।
अरणीव हुताशानां योनिरायतलोचना ॥ 5-116-12(35760)
नारद उवाच। 5-116-13x(3728)
एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः ।
उवाच गालवं दीनो राजर्षिर्ऋषिसत्तमम् ॥ 5-116-13(35761)
द्वे मे शते संनिहिते हयानां यद्विधास्तव।
एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः ॥ 5-116-14(35762)
सोऽहमेकमपत्यं वै जनयिष्यामि गालव।
अस्यामेतं भवान्कामं संपादयतु मे वरम्॥ 5-116-15(35763)
एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत् ।
मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना ॥ 5-116-16(35764)
प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि।
स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् ॥ 5-116-17(35765)
नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै ।
भविष्यन्ति तथा पुत्रा मम चत्वार एव च ॥ 5-116-18(35766)
क्रियतामुपसंहारो गुर्वर्थं द्विजसत्तम।
एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज ॥ 5-116-19(35767)
एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा ।
हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् ॥ 5-116-20(35768)
इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम् ।
चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् ॥ 5-116-21(35769)
नारद उवाच। 5-116-22x(3729)
प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च।
समये देशकाले च लब्धवान्सुतमीप्सितम् ॥ 5-116-22(35770)
ततो वसुमना नाम वसुभ्यो वसुमत्तरः ।
वसुप्रख्यो नरपतिः स बभूव वसुप्रदः ॥ 5-116-23(35771)
अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः ।
उपसङ्गम्य चोवाच हर्यश्वं प्रीतमानसम् ॥ 5-116-24(35772)
जातो नृप सुतस्तेऽयं बालो भास्करसंनिभः ।
कालो गन्तुं नरश्रेष्ठ शुल्कार्थमपरं नृपम् ॥ 5-116-25(35773)
नारद उवाच। 5-116-26x(3730)
हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे।
दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः ॥ 5-116-26(35774)
माधवी च पुनर्दीप्तां परित्यज्यनृपश्रियम्।
कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात् ॥ 5-116-27(35775)
त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः ।
प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् ॥ ॥ 5-116-28(35776)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षोडशाधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-116-9 बहुभिर्देवैरसुरैश्च आलोकयितुं योग्या बहुदेवासुरालोका। गन्धर्वाणां दर्शनं शास्त्रं गीतादिविद्या यस्यां सा तथा ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.